📚 गीताविवृतिः (राघवेन्द्रतीर्थः) - अध्यायः १२
Page 1
Download 📥
________________ अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । यें चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥१२.१॥ ॥ ॐ ॥ देवदेव्युपासनयोर्मध्ये देवोपासनस्याधिक्याय तदुपासनमाहास्मिन्नध्याये । भगवदुपास्त्याधिक्यपरत्वादस्य भगवन्माहात्म्यपरषट्कान्तर्भावश्च । तमेवंविद्वान्' (तै.आ. ३.१२.७) इत्यादौ भगवदुपास्तेरिव 'श्रियं वसाना अमृतत्वमायन्' इत्यादिश्रुतौ श्रियं प्रत्युपासीना अमृतत्वं प्राप्ता इति श्रीदेव्युपास्तेरपि मुक्तिहेतुत्वावगमेन जायमानपरकीयसन्देहमाहृत्य विशेषयुक्तिबुभुत्सया पृच्छति ॥ एवमिति । न च देव्युपास्तेर्मुक्तिहेतुत्वमुपचरितम् । ”अन्तवत्तु फलं तेषामिति साप्तमिकन्यायात् । अतो नास्य सन्देहहेतुत्वमिति शङ्क्यम् । ब्रह्मादिदेवानां जनिमृतिमत्त्वेन तदुपास्तेरन्तवत्फलकत्वेऽपि श्रियस्तु चतुष्कपर्दा' इत्यादौ नित्ययौवनज्ञानमयत्वदेवपूज्यत्वादिमहामहिम्नः श्रवणेन तदुपास्तेर्मुक्तिहेतुत्वसम्भवेन सन्देहहेतुत्वं मन्वानस्यायं प्रश्नः । ये भक्ताः सततयुक्ताः सततं ध्यानकर्मयोगवन्तः । एवं दृष्टश्रुतरूपं त्वां एवं 'मत्कर्मकृत' इत्याद्युक्तप्रकारेण पर्युपासते, येऽपि चाक्षरनामकमव्यक्तं चित्प्रकृतिं परिश्रद्धयया भक्तादिपूर्वकमुपासते तेषां मध्ये के योगवित्तमाः मोक्षोपायज्ञेषु श्रेष्ठाः इत्युवाचार्जुनः इत्यन्वयः । एवमित्यस्य त्वामित्यत्रोपासत इत्यत्र चान्वयः । एवमित्यस्यपूर्वपरामर्शित्वात्पूर्वानन्तर्यमप्यस्याध्यायस्य ध्येयम् । अत्राव्यक्तमित्येव वाच्ये अक्षरमिति तद्विशेषणोक्तिः क्षरणवद्भ्यो ब्रह्मादिदेवान्तरेभ्यो वैलक्षण्यप्रदर्शनेन प्रश्नसम्भावनार्था ॥१२.१॥ श्रीभगवानुवाच १